संकष्टहरण श्रीगणेशाष्टकम्
ॐ अस्य श्रीसंकष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपति देवता समस्तसंकष्टहरणपूर्वक समस्तैश्वर्योदयार्थे धर्मार्थ- काममोक्षफलवाप्तये जपे (पाठे) विनियोगः।
ॐ ॐ ॐ काररूपं त्र्यहमिति च परं यत्स्वरूपं
तुरीयं त्रैगुण्यातीतलीलं कलयति मनसं तेजसिन्दूर मूर्तिम् ।
योगीन्द्रैर्ब्रह्मरन्ध्रः सकलगुणमयं श्रीहरेन्देोगसङ्गम्
गं गं गं गं गणेशंगजमुखमभितो व्यापकं चिन्तयामि ।।१।।
बं बं बं विघ्नराजं भजति निज भुजे दक्षिणे न्यस्ततुण्डं
क्रं क्रं क्रं क्रोधमुद्रा दलित रिपुबलं कल्पवृक्षस्य मूले।
दंदंदं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं
धं धं धं धारयन्तं धनदमतिधियं सिद्धिबुद्धि द्वितीयम् ।।२।।
तुं तुं तुं तुङ्गरूपं गगनपथिगतं व्याप्नुवन्तं दिगन्तान्
क्लीं क्लीं क्लींकारनाथं गलितमदमिलल्लोलमन्तालिमालम् ।
ह्रीं ह्रीं ह्रींकारपिङ्गं सकल मुनिवरं ध्येयमुण्डं च सुण्डं
श्रीं श्रीं श्रीं श्रीं श्रयन्तं निखिलनिधिकुलं नौमि हेरम्बविम्वम् ।।३।।
लौं लौं लौंकारमाद्यं प्रणवमिव पदं मन्त्रमुक्तावलीनां
शुद्धं विघ्नेशवीजं शशिकरसदृशं योगिनां ध्यानगम्यम् ।
डंडंडं डामरूपं दलित भवभयं सूर्यकोटि प्रकाशं
यं यं यं यज्ञनाथं जपति मुनिवरो बाह्यमभ्यन्तरं च ।।४।।
हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं सूर्पकर्णं कृपालुं
ध्येयं सूर्यस्य विम्बं ह्युरसि च विलस्सूर्प यज्ञोपवीतम् ।
स्वाहा हुं फट् नमोन्तेः ठ ठ ठ सहितैः पल्लवैः सेव्यमानं
मन्त्राणां सप्तकोटी प्रगुणित महिमा धारमीशं प्रपद्ये ।।५।।
पूर्वं पीठं त्रिकोणं तदुपरि रुचिरं षट्कपत्रं पवित्रं
यस्योर्ध्वं शुद्धरेखां वसुदलकमलं वा स्वतेजसश्चतुस्रम् ।
मध्ये हुंकारबीजं तदनुभगवतः स्वाङ्ग षट्कं षडसे
अष्टौ शक्तिश्च सिद्धिर्बहुल गणपतिः विष्टरश्चाष्टकं च ।।६।।
धर्माद्यष्टौ प्रसिद्धा दशदिशि विदिता वा ध्वजाल्यः कपालं
तस्य क्षेत्रादिनाथं मुनिकुलमखिलं मन्त्रमुद्रा महेशम् ।
एवं यो भक्तियुक्तो जपति गणपतिं पुष्पधूपाक्षताद्यैः
नैवेद्यैर्मोदकानां स्तुतियुत विलसद् गीतवादित्रनादैः ।।७।।
राजानस्तस्य भृत्या इव युवतिकुलं दासवत् सर्वदाऽऽस्ते
लक्ष्मीः सर्वाङ्गयुक्ता श्रयति च सदनं किंकराः सर्व लोकाः ।
पुत्राः पुत्र्यः पवित्रा रणभुवि विजयी द्यूतवादेऽपि वीरो
यस्येशो विघ्नराजो निवसति हृदये भक्ति भाग्यस्य रुद्रः ।। ८।।