श्रियःकान्ताय कल्याणनिधये निधयेऽथिनाम् ।
श्रीवेंकटनिवासाय श्रीनिवासाय मंगलम् ॥१॥
लक्ष्मीस विभ्रमालोकेसुभूविभ्रम चक्षुषे ।
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥२॥
श्रीवैकुण्ठविरक्ताय, स्वामी पुष्करिणीतटे ।
रमया रममाणाय, वेङ्कटेशाय मङ्गलम् ॥३॥
कमलाकुच कस्तूरी, कर्दमाङ्कित वक्षसे ।
यादवाद्रि निवासाय, सम्पत्पुत्राय मङ्गलम् ॥४॥
सुस्मिताय सुनासाय, सुदृशे सुन्दरभ्र वे ।
सुलालट किरीटाय, रङ्गराजाय मङ्गलम् ॥५॥
मङ्गलं कौशलेन्द्राय, महनीय गुणाब्धये ।
चक्रवति तनूजाय, सार्वभौमाय मङ्गलम् ॥६॥
श्रीमद्गोपालबालाय, गोदाभीष्ट प्रदायिने ।
श्रीसत्या सहितायास्तु, कृष्णदेवाय मङ्गलम् ॥७॥
नीलाचल निवासाय, नित्याय परमात्मने ।
सुभद्राप्राणनाथाय, जगन्नाथाय मङ्गलम् ॥ ८॥
आप्तकामाय पूर्णाय, पुरुषोत्तम वासिने ।
परस्मै पुरुषायास्तु, जगन्नाथाय मङ्गलम् ॥ ६॥
सुभद्राप्राणनाथाय, सुभद्राह्वान शालिने ।
बलभद्रसनाथाय, जगन्नाथाय मङ्गलम् ॥१०॥
आजन्मनः षोडशाब्दं स्तन्याद्यनभिलाषिणे ।
श्रीशानुभवपुष्टाय, शठकोपाय मङ्गलम् ॥११॥
कूरेश कुरुकानाथ, दाशरथ्यादि देशिकाः ।
यच्छिष्या भान्ति ते तस्मै,यतिराजाय मंगलम्॥१२॥
मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।
सर्वेश्च पूर्वस्वाचार्यैः सत्कृतायास्तु मङ्गलम् ॥१३
श्रीमते रम्यजामातृमुनीन्द्राय महात्मने ।
श्रीरङ्गवासिने भूयान्नित्यश्रीनित्यमङ्गलम् ॥१४॥